2.55 ततः परमा वश्यतेन्द्रियाणाम्
१४:४१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
सूत्रसारः
व्यासभाष्यम्
शब्दादिष्वव्यसनमिन्द्रियजय इति केचित। सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति अविरुद्धा प्रतिपत्तिर्न्याय्या । शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये । रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित। चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः । ततश्च परमा त्वियं वश्यता यच्चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत्प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥५५॥
सम्बद्धाः लेखाः
बाह्यसम्पर्कतन्तुः
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM