2.52 ततः क्षीयते प्रकाशावरणम्
१४:४०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
सूत्रसारः
व्यासभाष्यम्
प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म, यत्तदाचक्षते—« महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्ते » इति । तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति प्रतिक्षणं च क्षीयते । तथा चोक्तम्—तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य इति ॥५२॥
सम्बद्धाः लेखाः
बाह्यसम्पर्कतन्तुः
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM