2.16 हेयं दुःखमनागतम्
१४:३७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
सूत्रसारः
व्यासभाष्यम्
तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते— दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते वर्तमानं च स्वक्षणे भोगारूढमिति न तत्क्षणान्तरे हेयतामापद्यते तस्माद्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति, नेतरं प्रतिपत्तारम् । तदेव हेयतामापद्यते ॥१६॥
सम्बद्धाः लेखाः
बाह्यसम्पर्कतन्तुः
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM