हलासनम्
१८:११, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
योगासनेषु अन्यतममस्ति हलासनम् ।
आसनकरणविधिः
- शवासने शयनं करोतु ।
- गुल्फद्वयं, अङ्गुष्ठद्वयं च परस्परं योजयतु ।
- करतलद्वयं शरीरमुभयतः भूमौ स्थापयतु ।
- मस्तकं ग्रीवां च ऋजुतया स्थापयतु ।
- पूरकेण शनैः पादद्वयम् मस्तकाभिमुखं नीत्वा शनैः मस्तकस्योपरि भूमौ स्थापयतु ।
- सम्पूर्णपूरकेण अस्यामवस्थायां पञ्च निमेषान् यावत् तिष्ठतु ।
- जानुद्वयं न पुटीकरोतु ।
- केवलम् अङ्गुष्ठद्वयेन भूमिं स्पृशतु ।
- हस्तद्वयं पूर्ववत् स्थापयतु ।
- पञ्चनिमेषाणाम् अनन्तरं शनैः रेचकेण पादद्वयमुत्थाप्य, पुनः शवासनं प्रति आगच्छतु ।
लाभः
- मेरुदण्डस्य ग्रन्थयः सन्तुलिताः भवन्ति ।
- रक्तसञ्चालनं, वायुसञ्चालनं च सुगमं भवति ।
- अग्न्याशयः क्रियाशीलः सन् ‘इनसूलिन्’ निर्माणे सहायकः भवति ।
- मेरुदण्डस्थाः सर्वेऽपि स्नायवः स्वस्थाः भवन्ति ।