सुभाषितरत्नभाण्डागारम्

भारतपीडिया तः
२२:१३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


सुभाषितरत्नभाण्डागारम् इत्येषः ग्रन्थः सुभाषितरत्नानां भाण्डागारमेव अस्ति । अस्मिन् ग्रन्थे काव्य-नाटक-चम्पू-भाण-प्रहसन-पुराण-इतिहास-आख्यायिकाभ्यः चितानि सुभाषितरत्नानि वर्तन्ते ।

ग्रन्थस्वरूपः

अयं ग्रन्थः षड्भिः प्रकरणैः युक्तः अस्ति । तानि प्रकरणानि -

  1. मङ्गलाचरणप्रकरणम्
  2. सामान्यप्रकरणम्
  3. राजप्रकरणम्
  4. चित्रप्रकरणम्
  5. अन्योक्तिप्रकरणम्
  6. नवरसप्रकरणम्

मङ्गलाचरणप्रकरणम्

अस्मिन् प्रकरणे देवताविषयकानि सुभाषितानि वर्तन्ते । परब्रह्म, गणेशः, सरस्वती, शिवः, पार्वती, षण्मुखः, हरिहरौ, त्रिमूर्तयः, विष्णुः, लक्ष्मीः, ब्रह्मा, दशावताराः, रामः, कृष्णः, बुद्धः, कल्किः, सूर्यः, चन्द्रः, पृथिवी - एतेषां विषये सुभाषितानि विद्यन्ते ।


परब्रह्म

अथ स्वस्थाय देवाय नित्याय हतपाप्मने ।

त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः ॥ १ ॥


दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।

स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ २ ॥


अनन्तनामधेयाय सर्वाकारविधायिने ।

समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥ ३ ॥


कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् ।

भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ ४ ॥


नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने ।

त्रिगुणाष्टगुणानन्तगुणनिर्गुणमूर्तये ॥ ५ ॥


यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः ।

योऽपि वा सोऽपि वा योऽसौ देवस्तस्यै नमोऽस्तु मे ॥ ६ ॥


नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये ।

अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये ॥ ७ ॥


चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे ।

दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः ॥ ८॥


भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य ।

ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ ९ ॥


नित्यं निरावृति निजानुभवैकमानमानन्दधाम जगदङ्कुरबीजमेकम् ।

दिग्देशकालकलनादिसमस्तहस्तमर्दासहं दिशतु शर्म महन्महो वः ॥ १० ॥

सामान्यप्रकरणम्

अस्मिन् प्रकरणे प्रशंसात्मकानि निन्दात्मकानि सुभाषितानि उपलभ्यन्ते । सुभाषित-विद्या-काव्य-कवि-पण्डित-छान्दस-वैयाकरण-नैयायिक-मीमांसा-वैद्य-गणक-पौराणिक-सज्जन-धन-दान-उदार-परोपकार-धीर-गुण-उद्यम-संहति-क्षमा-विनय-सत्य-वाग्मि-सत्सङ्गति-गृहस्थाश्रम-पुत्र-इत्यादीनां प्रशंसात्मकानि निन्दात्मकानि सुभाषितानि अत्र एकत्रीकृतानि सन्ति ।

राजप्रकरणम्

अस्मिन् प्रकरणे राजसभावर्णनम्-विशिष्टराजप्रशंसा-राजविभूषावर्ननम्-राजयात्रवर्णनम्-रणसामग्री-राज्याधिकारगर्हणम्-राजनीतिः-सामान्यनीतिः इत्यादिषु विषयेषु सुभाषितानि वर्तन्ते ।

चित्रप्रकरणम्

अस्मिन् प्रकरणे समस्याख्यानम्-प्रहेलिकाः-अपह्नुतयः-कूटानि-क्रियागुप्तादयः-मात्राच्युतकादयः-अन्तरालापाः-बहिरालापाः-प्रश्नोत्तराणि-चित्रम्-भाषाचित्रम्-जातिवर्णनम् इत्यादिषु विषयेषु सुभाषितानि दृश्यन्ते ।

अन्योक्तिप्रकरणम्

अस्मिन् प्रकरणे सूर्यान्योक्तयः-चन्द्रान्योक्तयः-मेघान्योक्तयः-वाय्वन्योक्तयः-पर्वतान्योक्तयः-समुद्रान्योक्तयः-रत्नानि-नदी-तडाग-कूप-मरुस्थल-दावानल-व्योमचर-स्थलचर-जलचर-वृक्षान्योक्तयश्च अत्र उपलभ्यन्ते ।

नवरसप्रकरणम्

अस्मिन् प्रकरणे शृङ्गाररसनिर्देशः विस्तृतरूपेण कृतः वर्तते । ततः वीर-करुणा-अद्भुत-हास्य-भयानक-बीभत्स-रौद्र-शान्तरसादीनां निर्देशः कृतः अस्ति ।

ग्रन्थस्य वैशिष्ट्यम्

अस्मिन् ग्रन्थे सुभाषितानि विषयानुगुणं योजितानि सन्ति इत्येतत् महत्त्वम् आवहति । सुभाषितानाम् अनन्तरं सुभाषिततत्नखण्डमञ्जूषा इत्येषः भागः वर्तते । अस्मिन् कथासरित्सागर्-रघुवंश-शिशुपालवध-कुमारसम्भव-अभिज्ञानशाकुन्तल-किरातार्जुनीय-नैषधीयचरित-मेघदूत-प्रसन्नराघव इत्यादिभ्यः गन्थेभ्यः उद्धृताः सुभाषितरत्नखण्डाः उपलभ्यन्ते । सुभाषितानां श्लोकानुक्रमणिका अपि उपलभ्यते इत्येतत् ग्रन्थस्य उपयुक्ततां वर्धयति । ज्ञातानां सुभाषितानां मूलमपि अत्र उल्लिखितमस्ति । सुभाषितानाम् अधः एव कठिनपदानाम् अर्थः अपि उल्लिखितः वर्तते ।

सम्बद्धाः लेखाः