सारिस्का मृगधाम
२१:२७, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
जयपुरनगरतः १०६ कि.मी दूरे कस्मिंश्चित् प्रपाते एतत् मृगधाम अस्ति । परितः पर्वताः सन्ति । प्रायः ८० हेक्तरविस्तीर्णे एतत् मृगधाम व्याप्तमस्ति । अत्र विशेषगर्दभ्यः वनबिडालः व्याघ्राः वनसूकराः इत्यादयः प्राणिनः यथेच्छं विहरन्ति । जुलै-आगस्टमासयोः अत्र प्रवेशः नास्ति । अलवरतः अत्र आगन्तुं वाहनसौकर्यम् अस्ति । अत्र विनयविलासमहल् नामकं किञ्चन राजगृहम् अस्ति । सर्वकारीयः वस्तुसङ्ग्रहालयोऽप्यस्ति ।
मार्गः
अलवरतः ३५ कि.मी जयपुरतः १४६ कि.मी