समाधिगुणः

भारतपीडिया तः
१३:४०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ



अन्यधर्माणामन्यत्राऽऽरोपणं समाधिः उच्यते । दण्डिनोऽप्ययमेवाऽऽशयः । वामनस्त्वारोहाऽवरोहक्रमस्समाधिरिति व्याचख्यौ । आरोहो नाम गुर्वक्षराधिक्यं, अवरोहस्तु लघ्वक्षराधिक्यमिति तस्याऽऽश्यः । यथा –

पृच्छन्ती दुग्धासिन्धुं कुशलमनुसरन्त्यादराच्छंकराद्रिं
चाटूक्त्यामानयन्ती मुहुरमरनदीं चन्द्रमग्रे हसन्ती ।
वैधात्रीं यानहंसावलिमनुकृपया स्वागतं व्याहरन्ती
लोकेषु त्रिष्वमीषु प्रभवति महतीवीररुद्रस्य कीर्तिः ॥

अत्राऽचेतनायां कीर्तौ कुशलप्रश्नकरणादि - चेतनधर्मारोपात् समाधिर्विद्यते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=समाधिगुणः&oldid=410" इत्यस्माद् प्रतिप्राप्तम्