वेदारम्भसंस्कारः

भारतपीडिया तः
१७:५९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


उपनयनसंस्कारस्य अनन्तरं गुरुः शिष्यं वेदान् शिक्षयेत् । तदारम्भप्रधानः संस्कारः एव अयम् ।

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ - याज्ञवल्‍क्‍यस्मृतिः

वेदारम्भः प्रथमं निजशाखायाः एव स्यात् । निजशाखां साङ्गोपाङ्गम् अधीत्य ततः शाखान्तराध्ययनक्रमः विहितः । तदुक्तं संस्कारप्रकाशे -

यच्छाखीयैस्तु संस्कारैः संस्कृतो ब्राह्मणो भवेत्
तच्छाखाध्ययनं कार्यमन्यथा पतितो भवेत् ॥
अधीत्य शाखामात्मीयां परशाखां ततः पठेत्
पारम्पर्यगतो येषां वेदः सपरिबृंहणः
तच्छाखं कर्म कुर्वीत तच्छाखाध्ययनं तथा ।
एवमध्ययनं कुर्वन् ब्रह्मसायुज्यमाप्नुयात् । इति ॥

ब्राह्मणस्य उपनयनसंस्कारानुपदमेव वेदारम्भकरणेन तदभ्यासः एव परमं तपः भवति ।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते इति मनुवचनप्रमाणम् ।

"https://sa.bharatpedia.org/index.php?title=वेदारम्भसंस्कारः&oldid=6281" इत्यस्माद् प्रतिप्राप्तम्