वेदानां सामवेदोऽस्मि...

भारतपीडिया तः
१३:१४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः

वेदानां सामवेदः अस्मि देवानाम् अस्मि वासवः इन्द्रियाणां मनः च अस्मि भूतानाम् अस्मि चेतना ॥ २२ ॥

अन्वयः

वेदानां सामवेदः अस्मि । देवानां वासवः अस्मि । इन्द्रियाणां मनः च अस्मि । भूतानां चेतना अस्मि ।

शब्दार्थः

वेदानाम् = चतुर्णां वेदानाम्
सामवेदः अस्मि = सामवेदः अस्मि
देवानाम् = सुराणाम्
वासवः अस्मि = इन्द्रः अस्मि
इन्द्रियाणाम् = इन्द्रियाणाम्
मनः च = चित्तम्
भूतानाम् = प्राणिनाम्
चेतना अस्मि = चैतन्यम् अस्मि ।

अर्थः

चतुर्षु वेदेषु अहं सामवेदः अस्मि । सुरेषु इन्द्रः अस्मि । इन्द्रियेषु मनः अस्मि । प्राणिषु चैतन्यम् अस्मि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः