लक्षद्वीपाः
फलकम्:Infobox Indian jurisdiction लक्षद्वीप: भारतस्य कश्चित् केन्द्रशासितः प्रदेशः अस्ति। एतत् भारतीयप्रशासनाधीनद्वीपानां समूहस्थानम् । अत्र ३६ द्वीपाः सन्ति । एतेषां द्वीपानां पाङ्क्तिः एव जले अतीव सुन्दरतया प्रकाशते । लक्षद्वीपस्य ल्याक्डीव् इति अपि नाम अस्ति । अस्य विस्तारः ५० चतुरस्रकि.मीमितः । शतशः द्वीपाः अत्र सन्ति । तेषु ५० द्वीपेषु केवलं जनाः निवसन्ति । एते द्वीपाः अग्निपर्वतैः निर्मिताः इति कथयन्ति । उत्तरभागे स्थितानां द्वीपानाम् अमिण्डिवि इति नाम अस्ति । मिनिकायद्वीपः एतेषु द्वीपेषु बृहत् अस्ति । एषः तिरुवनन्तपुरम् दिशि अस्ति । भारतीयाः अत्र मुक्ततया गत्वा आगच्छन्ति । अत्र बहुजनाः महम्मदीयाः सन्ति । विदेशीयानां अत्र गमनाय अनुमति पत्रम् आवश्यकम् अस्ति । अत्र विशेषाकर्षणम् सागरजले निमज्यखेलनं लक्ष्यद्वीपस्य राजधानी कवरट्टी अस्ति । अत्र नारिकेलवृक्षाणां वाटिकाः सन्ति । बङ्गारम् द्वीपे प्रवासिनाम् उपाहारगृहाणि सन्ति । अत्र स्कुबा डैविङ्ग् (जलस्य अन्तः प्रविश्य तरणम्), स्नोरकेलिङ्ग(नलिकायाः साहाय्येन जले तरणम्)च विशेषाः सन्ति ।
मार्गः
विमानसेवा, हेलिकाप्टरसेवा, नौकायानं च प्रतिदिनं कार्यरतानि सन्ति । अत्र गमनार्थम् प्रवासोद्यमविभागतः अनुमतिस्वीकारः आवश्यकः अस्ति ।
बाह्यसम्पर्कतन्तुः
- फलकम्:Official website
- A Picture Essay of Lakshadweep
- Hydrographic Description (Indian Ocean Pilot)
- Lagoon sizes
- Bangaram Island Resort
- List of Atolls
- An ornithological expedition to the Lakshadweep archipelago
- Sources towards a history of the Laccadive Islands