यया तु धर्मकामार्थान्...

भारतपीडिया तः
००:३५, २५ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुस्त्रिंशत्त्मः(३४) श्लोकः ।

पदच्छेदः

यया तु धर्मकामार्थान् धृत्या धारयते अर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥

अन्वयः

अर्जुन ! प्रसङ्गेन फलाकाङ्क्षी यया धृत्या धर्मकामार्थान् धारयते सा धृतिः राजसी ।

शब्दार्थः

धृत्या = प्रयत्नेन
धर्मकामार्थान् = पुरुषार्थान्
प्रसङ्गेन = कर्तृत्वाभिमानेन
फलाकाङ्क्षी = फलाभिलाषी ।
धारयते = अवधारयते
धृति: = उद्यम:
पार्थ = हे पार्थ !
राजसी = राजसी

अर्थः

अर्जुन ! कर्तृत्वाभिमानेन फलापेक्षः सन् यया धृत्या धर्मार्थकामान् पुरुषार्थान् धारयति सा धृतिः राजसी इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः