यदृच्छालाभसन्तुष्टो...

भारतपीडिया तः
१०:५५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वाविशतितमः (२२) श्लोकः ।

पदच्छेदः

यदृच्छालाभसन्तुष्टः द्वन्द्वातीतः विमत्सरः समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते ॥ २२ ॥

अन्वयः

विमत्सरः द्वन्द्वातीतः यदृच्छालाभसन्तुष्टः सिद्धौ असिद्धौ च समः कर्म कृत्वा अपि न निबध्यते ।

शब्दार्थः

विमत्सरः = वैरशून्यः
द्वन्द्वातीतः = सुखदुःखादिद्वन्द्वशून्यः
यदृच्छालाभसन्तुष्टः = अप्रार्थितोपस्थितेन सन्तुष्टः
सिद्धौ = प्रयोजनस्य लाभे
असिद्धौ च = तस्य अलाभे अपि
समः = तुल्यमनस्कः
कृत्वा अपि = कर्म विधाय अपि
न निबध्यते = बद्धः न भवति ।

अर्थः

निरपेक्षत्वात् यावत् उपस्थितं भवति तावता एव सन्तुष्टः, हर्षशोकादिद्वन्द्वात् दूरे स्थितः, मद-मत्सरासूयाविहीनः, सिद्धौ असिद्धौ निर्विकारः च, कर्मयोगी कर्माणि कृत्वापि बद्धः न भवति ।

शाङ्करभाष्यम्

त्यक्तसर्वपरिग्रहस्य यतेरन्नादेः शरीरस्थितिहेतोः परिग्रहस्याभावाद्याचनादिना शारीरस्थितौ कर्तव्यतायां प्राप्तायाम् 'अयाचितमसंक्लृप्तमुपपन्नं यदृच्छया' इत्यादिनावचनेनानुज्ञातं यतेः शरीरस्थितिहेतोरन्नादेः प्राप्तिद्वारमाविष्कुर्वन्नाह-यदृच्छेति। यदृच्छालाभसंतुष्ट अप्रार्थितोपनतो लाभो यदृच्छालाभस्तेन संतुष्टः संजातालंप्रत्ययः।द्वन्द्वातीतः द्वन्द्वैः शीतोष्णादिभिर्हन्यमानोऽविश्ण्णचित्तो द्वन्द्वातीत उच्यते। विमत्सरोविगतमत्सरो निर्वैरबुद्धिः समस्तुल्योयदृच्छया लाभस्यापि सिद्धावसिद्धौ च य एवंभूतो यतिरन्नादेःशरीरस्थितिहेतोर्लाभालाभयोः समो हर्षविषादवर्जितः कर्मादावकर्मादिदर्शी यथाभूतीत्मदर्शननिष्ठः शरीरस्थितिमात्रप्रयोजनेभिक्षाटनादिकर्माणि शरीरादिनिर्वर्त्यं नैव किंचित्करोम्यहं 'गुणा गुणेषु वर्तन्ते' इत्येवं सदा संपरिचक्षाण आत्मनः कर्तृत्वाभावं पश्यन्नैव किंचिद्भिक्षाटनादिकंकर्म करोति, लोकव्यवहारसामान्यदर्शनेन तु लौकिकैरारोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति, भिक्षाटनादिचेष्टास्वप्यकर्तृत्वाद्यनुसंधानमेव विदुषः स्वानुभवेनतु शास्रप्रमाणादिजनितेनाकर्तैव, स एवं पराध्यारोपितकर्तृत्वं शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिकं कर्म कृत्वापि न निबध्यते बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानाग्निनादग्धत्वादित्यनिवाद एवैषः।।22।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=यदृच्छालाभसन्तुष्टो...&oldid=9060" इत्यस्माद् प्रतिप्राप्तम्