यथाकाशस्थितो नित्यं...
१३:१०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
- तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य षष्ठः(६) श्लोकः ।
पदच्छेदः
यथा आकाशस्थितः नित्यं वायुः सर्वत्रगः महान् तथा सर्वाणि भूतानि मत्स्थानी इति उपधारय ॥ ६ ॥
अन्वयः
यथा नित्यं सर्वत्रगः महान् आकाशस्थितः वायुः तथा मत्स्थानि सर्वाणि भूतानि इति उपधारय ।
शब्दार्थः
- यथा = येन प्रकारेण
- नित्यम् = सदा
- सर्वत्रगः = सर्वत्र गन्ता
- महान् = महापरिमाणः
- आकाशस्थितः = नभसि वर्तमानः
- वायुः = अनिलः
- तथा = तेन प्रकारेण
- मत्स्थानि = मयि स्थितानि
- सर्वाणि = सकलानि
- भूतानि इति = भूतानि इति
- उपधारय = जानीहि ।
अर्थः
यथा सदा सर्वत्र संचरन् महान् वायुः आकाशे वर्तमानोऽपि न तेन सम्बध्यते तथा सर्वाणि भूतानि मयि वर्तमानान्यपि निस्सत्वात् न मया सम्बध्यन्ते इति विजानीहि ।