यज्ञदानतपःकर्म...

भारतपीडिया तः
१३:०९, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः

यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् यज्ञः दानं तपः च एव पावनानि मनीषिणाम् ॥

अन्वयः

यज्ञदानतपःकर्म न त्याज्यं तत् कार्यम् एव । यज्ञः दानं तपः च एव मनीषिणां पावनानि ।

शब्दार्थः

यज्ञदानतपःकर्म = यागः दानं तपः च इति कर्म
कार्यम् = कर्तव्यम्
मनीषिणाम् = विदुषाम्
पावनानि = शुद्धिकराणि ।

अर्थः

यज्ञः दानं तपश्च इति एतत् कर्मत्रयं न सर्वथा वर्जनीयम् । तत् अवश्यं कर्तव्यम् । यतः तत् त्रिविधं कर्म मनीषिणां शुद्धिकरम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=यज्ञदानतपःकर्म...&oldid=5415" इत्यस्माद् प्रतिप्राप्तम्