बालकृष्णदीक्षितः

भारतपीडिया तः
१३:३५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ



कविपरिचयः

बालकृष्णदीक्षितः (Balakrishna Dixit) जोधपुरनरेशस्य अजितसिंहस्य सभापण्डितः आसीत् । अजितसिंहस्य शासनकालः १७०७ तः १७२४ क्रिस्ताब्दपर्यन्तम् । अतोऽस्य कवेः स्थितिकालः अष्टादशशतकस्य पूर्वार्धभागो निश्चीयते ।

कृतिपरिचयः

अयं कविः स्वाश्रयदातुः प्रशस्तिवर्णनाय अजितचरित्रमहाकाव्यं प्रणीतवान् । अस्मिन् महाकाव्ये १० सर्गाः सन्ति । अत्र नायकस्य अजितसिंहस्य प्रसङ्गतश्च तत्पूर्वजानां तत्तन्नृपाणां चरितानि वर्णितानि । वीररसोऽत्र अङ्गिरसः, शृङ्गारादिरसाः तदङ्गतयो निपुणमभिव्यक्ताः ।

काव्यकला

अजितचरित्रमहाकाव्ये कविना वैदर्भीरीतिराश्रिता । प्रसादमाधुर्यौजोगुणानां यथास्थानं सुन्दरसमावेशो विहितः । कविः ऐतिहासिकघटनानां निर्देशे सावधानोऽवलोक्यते परं न तस्मात् काव्यत्वहानिः । रसाभिव्यक्तिपक्षोऽत्र समृद्धः अलङ्कारयोजनायां रसानुकूलता स्वाभाविकता च दृस्येते । अत्र भाषा सरला सुबोधा चास्ति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=बालकृष्णदीक्षितः&oldid=2132" इत्यस्माद् प्रतिप्राप्तम्