न तु मां शक्यसे द्रष्टुम्...
१३:०३, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
- दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः
न तु मां शक्यसे द्रष्टुम् अनेन एव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ८ ॥
अन्वयः
अनेन स्वचक्षुषा एव मां द्रष्टुं न शक्यसे । ते दिव्यं चक्षुः ददामि । ऐश्वरं मे योगं पश्य ।
शब्दार्थः
- अनेन = एतेन
- स्वचक्षुषा एव = स्वनेत्रेण एव
- मां द्रष्टुम् = माम् अवलोकितुम्
- न तु शक्यसे = न समर्थः भवसि
- ते = तुभ्यम्
- दिव्यम् = अलौकिकम्
- चक्षुः = नेत्रम्
- ददामि = यच्छामि
- ऐश्वरम् = ईश्वरसम्बन्धि
- मे योगम् = मम सामर्थ्यम्
- पश्य = अवलोकय ।
अर्थः
एतेन नेत्रेण एव मां द्र्ष्टुं त्वं समर्थः न भवसि । अतः तुभ्यम् अलौकिकं नेत्रं यच्छामि येन ईश्वरस्य मम असाधारणं सामर्थ्यं पश्य ।