नेप्चून्-ग्रहः

भारतपीडिया तः
०४:१९, २५ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
वरुणस्य चित्रम्

नेप्चून् (Neptune; चिह्न: ♆) कश्चन ग्रहः भवति। नेप्चून् इति निर्दिश्यमानः ग्रहः भारतीयचिन्तनाक्रमे वरुणः इति कथ्यते । १८४६ तमे वर्षे अन्विष्टः अयं ग्रहः इन्द्रः (युरेनस्) इव हरिद्वर्णीयः । अस्य ग्रहस्य द्वौ उपग्रहौ - ट्रैटन्, नेरैड् च । स्वस्य परिभ्रमणाय अयं ग्रहः २६ निमेषोत्तर १८ घण्टाः स्वीकरोति । सूर्यं परितः भ्रमणाय १६४.८ वर्षाणि स्वीकरोति । अयं सौरमण्डले अष्टमः। सूर्यात् दूरे विद्यमानः ग्रहः । व्यासानुगुणम् अयं चतुर्थः महान् ग्रहः । द्रव्यराश्यनुगुणं तृतीयः महान् ग्रहः । भूमेः द्रव्यराशेः अपेक्षया १७ गुणितम् अधिकमस्ति अस्य द्रव्यराशिः। अयं ग्रहः सूर्यात् ३०.०७ खगोलमानदूरे अस्ति। सामान्यतः अस्य दूरं २,७९३,०००,००० विदूरम्, २८१६ मिलीयमैलुपरिमितम् अस्ति। अदूरं २७९८ मिलिय मैलुपरिमितम् अस्तीति। अस्य पथः अल्पदीर्घवृत्तो भवति। तत् पथः भू पथाय १ डिग्रि ४७ निमेषाः अभिनतः अस्ति। अयं वरुणः(नेप्चून्) लघुग्रहः न। गात्रे भूमेः अपेक्षया ७२ भागः बृहत् भवति। भारे केवलं १७ भागः आधिक्यमस्य इति।

रचना

अस्य ग्रहस्य रचना अरुण(युरेनस्) ग्रहवत् अस्तीति ऊहा। (युरेनस्) अरुणग्रहवत् हरितनीलवर्णाभ्याम् अयं ग्रहः मिलितः अस्ति। अस्य ग्रहाय सूर्यरश्मीः अतिशयतया प्रतिफलन शक्तिः अस्ति। किन्तु सूर्यात् अस्य स्थानं गणयामश्चेत् अस्य प्राप्तेः शाखप्रकाशौ न्यूनौ इति। भूमौ एकचदर गजविस्ताराय यावत् शाखप्रकाशौ आगच्छतः, तेषु सहस्रेषु एको भागः सूर्यात् वरुणस्य एकचदरगात्रपरिमिते आगतं स्यात्। एतदपेक्षया सूर्यगोलकः तत्र विद्यमान जन्तुविशेषेभ्यः नक्षत्रगात्रे दृश्यते। अस्य गोलकस्योपरि, भूमौ उषःकाले यावान् प्रकाशः भवति तावान् प्रकाशः सूर्यात् प्रायः लभ्येत। वरुणग्रहे पूरित अनिलाः गुरुशनिग्रहयोः वस्तुने सदृशाः भवन्ति। मिथेन्,अमोनिया अनिलौ अस्मिन् वरुणवातावरणे अधिकतया दृश्यतः इति। उक्तान् विहाय भूमौ अविद्यमानाः केचन धातवः अस्मिन् सन्तीति ज्ञातमस्ति। अस्य ग्रहस्य ४१,००० कि.मि. व्यासपरिमितगोलकः भवति। अयं ग्रहः स्वपथे २९ डिग्रि अभिनतः अस्ति। १५ घण्टाः,४० निमेषाय एकवारं परिक्रमति। स्ववृत्ते एकवारं संपूर्णं परिक्रमणार्थं १९४ वर्षाणि २८० दिनानि अपेक्षन्ते। अर्थात वरुणस्य एकवर्षाय अस्माकं १९५ वर्षाणि समानानि भवन्ति। अथः तत्र विद्यमान वातावरण, शीतादीनां कल्पना अस्माकं गणनायां यान्ति इति।

चन्द्रौ

भूमिः चन्द्रयोः मध्ये विद्यमानान्तर दूरे,वरुणस्य परितः परिक्रम्यमाणस्य चन्द्रस्य अस्तित्वं १८४९ तमे संवत्सरे ज्ञातमिति। विलियं लासेल् इत्यनेन अस्य शोधं कृतवान्। अयं ग्रहकेन्द्रात् ३२०,००० कि.मि. दूरे अस्ति। मातृग्रहाय ५ दिनानि, २० घण्टाः, २ निमेषाः, ३८ क्षणात्मक समये एकवारं परिक्रमणं कृत्वा आगच्छति। वरुणस्य पथाय ३५-४० डिग्रि अभिनतः भूत्वा संचरतः चन्द्राय “ट्रैटन्" इति नाम। अस्यैव ग्रहम् आश्रितः अन्यः चन्द्रः भवति(द्वितीयः)। अस्यैव नाम “नेरैड्” इति। अस्य अन्वेषणं १९४९ तमे संवत्सरे डच्चदेशीय विज्ञानि जिरार्ड क्यूपर् कृतवान्।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=नेप्चून्-ग्रहः&oldid=9450" इत्यस्माद् प्रतिप्राप्तम्