देशः
२१:५१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
देशः इत्यस्य विभिन्नाः अर्थाः भवन्ति ।
- १ प्रदेशः, स्थलम्
- दिश (अतिसर्जने) 'अच्' (३-१-१३४) ।
- 'देशः सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः' - वेणीसंहारः ३-३३
- २ राष्ट्रम्
- 'को वीरस्य मनस्विनः स्वविषयः को वा विदेशस्तथा यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम्' - हितोपदेशः-१-१७५
- ३ असाधारणाज्ञा, शासनम्
- दिश्यते - दिश कर्म 'धञ् (३-३-१९)
- ४ उपदेशः, शिक्षणं, बोधनम्
- दिश भावे 'धञ्' (३-३-१८)