त्रिविधा भवति श्रद्धा...

भारतपीडिया तः
१३:०१, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः

श्रीभगवानुवाच -

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां श्रुणु ॥ २ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्त्विकी राजसी च एव तामसी च इति तां श्रुणु ॥ २ ॥

अन्वयः

देहिनां स्वभावजा (या) श्रद्धा सा सात्त्विकी राजसी तामसी च इति त्रिविधा भवति, तां शृणु ।

शब्दार्थः

देहिनाम् = शरीरवताम्
स्वभावजा = स्वभावात् सञ्जाता
श्रद्धा = आस्था ।

अर्थः

प्राणिनां स्वभाववशात् या श्रद्धा भवति सा सात्त्विकी, राजसी, तामसी चेति त्रिविधा वर्तते । तद्विवृणोमि, शृणु ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः