तुलसीकषायम्

भारतपीडिया तः
२०:५०, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ
तुलसीसस्यम्

तुलसीपत्रैः निर्मितं कषायम् एव तुलसीकषायम् । एषा तुलसी आङ्ग्लभाषायां Holy Basil (Ocimum tenuiflorum) इति वदन्ति ।

तुलसीकषायस्य प्रयोजनानि

१ एतत् तुलसीकषायम् आरोग्यार्थं बहु उत्तमम् ।
२ तुलसीकषायस्य पानेन पीनसः, कासः, कफः, उदरवेदना, कीटबाधा इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
३ शैत्यकालस्य वृष्टिकालस्य च आरम्भे पूर्वजागरूकतायाः दृष्ट्या एतत् तुलसीकषायम् पातुं शक्यते ।
४ बालानां कृते मासत्रयाभ्यन्तरे वा एकवारम् एतत् तुलसीकषायं दातव्यम् ।

अस्य तुलसीकषायस्य निर्माणम्

तुलसीपत्राणि सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

"https://sa.bharatpedia.org/index.php?title=तुलसीकषायम्&oldid=2865" इत्यस्माद् प्रतिप्राप्तम्