ठाणेमण्डलम्

भारतपीडिया तः
०१:४३, २५ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

शिरगावकोट:
सञ्चिका:Tha.chiku.jpg
चिकू उत्पादनम्
सञ्चिका:Thane chitre.jpg
चित्रे गुरुजी
वसई कोट:
सञ्चिका:Thane anutai.jpg
अनुताई वाघ

ठाणेमण्डलं (फलकम्:Lang-mr फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं ठाणे इत्येतन्नगरम् । महाराष्ट्रराज्ये उत्तरदिशि मण्डलमिदं विद्यते ।

भौगोलिकम्

ठाणेमण्डलस्य विस्तारः ९,५५८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि अहमदनगरमण्डलं, पुणेमण्डलं च, पश्चिमदिशि अरबी समुद्रः, उत्तरदिशि गुजरातराज्यं, दादरा नगर हवेलीकेन्द्रशासितप्रदेशश्च, दक्षिणदिशि मुम्बईनगरं, रायगडमण्डलं च अस्ति । अस्मिन् मण्डले २५७६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र द्वे प्रमुखनद्यौ स्तः । ते उल्हास, वैतरणा च । मण्डलेऽस्मिन् पूर्वदिशि सह्याद्रिपर्वतावलि: वर्तते । मण्डलस्य पश्चिमदिशि ११२ कि.मी.मित: सागरतट: अस्ति । मण्डलेऽस्मिन् सामान्यत: उष्णं, आर्द्रं च वातावरणं भवति ।

जनसङ्ख्या

ठाणेमण्डलस्य जनसङ्ख्या(२०११) १,१०,६०,१४८ अस्ति । अस्मिन् ५८,६५,०७८ पुरुषा:, ५१९५०७० महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ११५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११५७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३६.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८८६ अस्ति । अत्र साक्षरता ८४.५३ % अस्ति । मण्डलेऽस्मिन् ७७% जना: नगरेषु निवसन्ति ।

ऐतिहासिकं किञ्चित्

मण्डलपरिसरोऽयं प्राचीने 'अपरान्त' प्रदेशे समाविष्ट: आसीत् । परशुराम:, पाण्डवा: अत्र निवासं कृतवन्त: इत्येवं कथ्यते । पाण्डवकाले यत् शूर्पारकम् आसीत् तदेव अद्यतनं सोपारानगरम् इति कथ्यते । मण्डलपरिसरे मौर्य-शिलाहार-बिम्ब-यादव-बहमनी-पोर्तुगाली-मुघल-मराठाशासकानाम् आधिपत्यमासीत् । मराठाशासकेभ्य: परिसरोऽयम् आङ्ग्लाधिपत्ये गत: । १९४७ तमे वर्षे स्वतन्त्रभारते अस्य समावेश: जात: । 'कल्याणचा खजिना' कल्याण-कोशलुण्ठनं, 'वसईचा वेढा' वसईकोटव्यूह:, साष्टी इत्यत्र आधिपत्यं इत्यादय: शिवाजीमहाराजस्य जीवनकाले घटिता: ऐतिहासिकप्रसङ्गा: अत्रस्था: एव ।

कृषि: उद्यमाश्च

तण्डुल:, हरितशाकानि, पुष्पाणि, नारिकेल:, कदलीफलं, 'चिकू', रागिका, 'वरई' इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । ११२ कि.मी.मितः सागरतट: वर्तते मण्डलेस्मिन् अत: मत्स्यव्यवसाय: अपि अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । २६३५ मत्स्य-शीतनिक्षेपणकेन्द्राणि(storage) सन्ति अत्र । मण्डलमिदं महाराष्ट्रराज्ये उद्योगक्षेत्रे तृतीयक्रमाङ्के तिष्ठति । मण्डलस्य दक्षिण-पश्चिमपार्श्वयो: उद्यमानां केन्द्रीकरणं दृश्यते । पालघर उपमण्डलस्य 'तारापुर' इत्यस्मिन् स्थाने महाराष्ट्रराज्यस्य प्रप्रथम अणु-ऊर्जाप्रकल्प: प्रचलति, आभारतं प्रसिद्धश्च । केन्द्रसर्वकारानुशासित-स्फोटकास्रनिर्माणोद्यम: अम्बरनाथ इत्यस्मिन् उपमण्डले वर्तते ।

उपमण्डलानि

अस्मिन् मण्डले पञ्चदश-उपमण्डलानि सन्ति । तानि-

  • ठाणे
  • वसई
  • कल्याण
  • मुरबाड
  • भिवण्डी
  • शहापूर
  • वाडा
  • जव्हार
  • मोखाडा
  • पालघर
  • डहाणू
  • तलासरी
  • उल्हासनगर
  • अम्बरनाथ
  • विक्रमगड

लोकजीवनम्

मण्डलस्य अस्य शहापुर, मुरबाड, वाडा, जव्हार, मोखाडा, डहाणू, विक्रमगड, तलासरी इत्येतानि उपमण्डलानि ग्रामीणानि सन्ति । ग्रामीणभागे आदिवासिजनजातीनां प्राचुर्यम् अस्ति । तेषां विशिष्टा संस्कृति: वर्तते । 'वारली' आदिवासिजना: ठाणे मण्डलस्य तलासरी, डहाणू, जव्हार, मोखाडा इत्येतेषु उपमण्डलेषु अधिका: निवसन्ति । कातकरी, ठाकूर, धोडिआ, दुबळा, ढोर, कोळी, महादेव कोळी इत्येता: जनजातय: मण्डलेऽस्मिन् विद्यन्ते ।
ठाणे, कल्याण, उल्हासनगर, अम्बरनाथ, भिवण्डी, वसई, पालघर इत्येतानि उपमण्डलानि नगरविभागे समाविष्टानि । एतेषां नगरविभागां मुम्बईनगरसामीप्यात् मुम्बईनगरस्य संस्कृत्या:, आधुनिकीकरणस्य च प्रभाव: अत्र दृश्यते । सर्वस्थानेषु विकासार्थं शिक्षण-जीविका-कृषिसुविधाविषये योजना: प्रचलन्ति ।

विशेषव्यक्तय:

मण्डलमिदं बहूनां विभूतिनां कार्यस्थलं, जन्मस्थलं वा आसीत् । यथा आचार्य भिसे, आचार्य चित्रे एतयो: शिक्षणकार्यं बोर्डी इत्यस्मिन् स्थाने वर्तते । महाविद्यालयशिक्षणस्य अस्मिन् परिसरे आनयने एतयो: महत्त्वपूर्ण: सहभाग: अस्ति । अनुताई वाघ, ताराबाई मोडक एतयो: बालशिक्षणविषयकं कार्यं, प्रयोगा: च अत्र कोसबाड इत्यस्मिन् स्थाने आसन् । इदानीम् अपि एतयो: निवासस्थानं, पाठशाला च द्रष्टुं शक्नुम: । गोदावरीबाई परुळेकर इति 'मार्क्स्-वादी' आन्दोलनकर्त्री, आदिवासिजनान् एकत्रीकृत्य नेतृत्वम् ऊढवती । अन्धेर गुरुजी इत्यपि एक: आदिवासिनां शिक्षणार्थं यतितवान् । स: अपङ्ग: आसीत् परं शिक्षणार्थं आदिवासिक्षेत्रेषु बहु कार्यं कृतवान् । जयन्तराव पाटील, पद्मश्री हरिश्चन्द्र पाटील, चिन्तामणराव पाटील इत्येतै: राष्ट्रियस्तरे कृषिक्षेत्रे अस्मात् स्थानात् बहु कार्यं कृतम् । अस्मात् मण्डलात् ८६ स्वातन्त्र्यसैनिका: स्वातन्त्र्यसङ्ग्रामे भागम् ऊढवन्त: ।

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • अम्बरनाथ इत्यत्र ११ शतके स्थापितं सोमनाथमन्दिरम्
  • बेलापुर-कोट:
  • पोर्तुगाली जनै: निर्मापित: वसई-कोट:
  • अर्नाळा-कोट:
  • दादोजी कोण्डदेव क्रीडाङ्गणम्
  • डहाणू उपमण्डलं 'चिकू' उत्पादनार्थं आभारतं प्रसिद्धम् । उपमण्डलेऽस्मिन् बोर्डी इति स्थलं रौप्य/रजतसागरतटानां प्राचुर्यात् आमहाराष्ट्रं प्रसिद्धम् । उदवाडा इत्यस्मिन् स्थाने 'पारसी' जनानां ऐतिहासिकपवित्रस्थलम् अग्यारी विद्यते ।
  • टिटवाळा इत्यत्र गणपतिमन्दिरं
  • वज्रेश्वरीदेवालय:
  • गणेशपुरी इत्यत्र नित्यानन्द-स्वामिन: आश्रम:
  • कोकनार, सातीवली, वज्रेश्वरी, गणेशपुरी च इत्येतेषु स्थानेषु गन्धकयुक्त-उष्णजलकुण्डानि
  • जव्हार उपमण्डले वारली-चित्राणि, मुकणेवंशस्य राजप्रासादं 'जय विलास पेलेस', भूपतगड, दादर-कोपरा जलप्रपात: च
  • अनुताई वाघ इत्यस्या: शैक्षणिकसंस्था, कार्यं च कोसबाड इत्यस्मिन् स्थाने प्रचलत् आसीत् ।
  • शहापुर उपमण्डले तानसा तडागः
  • हाजीमलङ्ग 'दर्गाह्'

बाह्यानुबन्धाः

फलकम्:महाराष्ट्र मण्डलाः

"https://sa.bharatpedia.org/index.php?title=ठाणेमण्डलम्&oldid=1448" इत्यस्माद् प्रतिप्राप्तम्