ज्यायसी चेत्कर्मणस्ते...

भारतपीडिया तः
०६:३४, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement ज्यायसी चेत्कर्मणस्ते (फलकम्:IPA audio link) इत्यनेन श्लोकेन अर्जुनः ज्ञानकर्मणोः किं श्रेष्ठम् इति पृच्छन् स्वस्य ऐकान्तिकश्रेयसः साधनम् अपि पृच्छति । पूर्वस्मिन् अध्याये ज्ञानकर्मणोः विस्तारेण चर्चां कृत्वा यदा भगवान् श्रीकृष्णः तूष्णीं भवति, तदा अर्जुनः अत्र ज्ञानकर्मणोः किं श्रेष्ठं, तथा च मम कृते ऐकान्तिकं श्रेयस्साधनं किमि इति वक्तुं निवेदयति । सः निवेदयति यद्, हे जनार्दन ! यदि भवान् कर्मणः ज्ञानं (बुद्धिः) श्रेष्ठम् इति मनुते, तर्हि हे केशव ! मां घोरकर्मणि किमर्थं नियोजयति ? भवान् स्वस्य मिश्रवचनैः मे बुद्धिं मोहितां कुर्वन् अस्ति । अतः भवान् एकं विषयं निश्चितं कृत्वा वदतु, येन अहं कल्याणं प्राप्तुं शक्नोमि इति ।

श्लोकः

गीतोपदेशः

अर्जुन उवाच -

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥

पदच्छेदः

ज्यायसी चेत् कर्मणः ते मता बुद्धिः जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥

अन्वयः

जनार्दन ! बुद्धिः कर्मणः ज्यायसी ते मता चेत्, केशव ! तत् घोरे कर्मणि मां किं नियोजयसि ?

शब्दार्थः

अन्वयः सरलसंस्कृतम्
जनार्दन हे कृष्ण !
बुद्धिः ज्ञानम्
कर्मणः कर्मापेक्षया
ज्यायसी अतिशयेन प्रशस्ता
ते तव
मता चेत् अभिमता चेत्
तत् तर्हि
केशव कृष्ण !
माम् माम्
घोरे क्रूरे
कर्मणि युद्धकार्ये
किम् किमर्थम्
नियोजयसि आयोजयसि ।

व्याकरणम्

सन्धिः

  1. कर्मणस्ते = कर्मणः + ते, विसर्गसन्धिः (सकारः)
  2. बद्धिर्जनार्दन = बुद्धिः + जनार्दन विसर्गसन्धिः (रेफः)

कृदन्तः

  1. जनार्दन = जन + अर्द + ल्यु (कर्तरि) जनान् अर्दयति ।
    जनाः यथा पुरुषार्थान् याचन्ते, तथा करोति इत्यर्थः ।

तद्धितान्तः

  1. ज्यायसी = प्रशस्य/वृद्ध + ईयसुन् (ज्य इति आदेशः)

अर्थः

हे भगवन् ! यदि कर्मणः अपेक्षया ज्ञानमेव श्रेष्ठमिति भवान् अभिप्रैति तर्हि मां किमर्थं क्रूरे युद्धकर्मणि नियोजयसि ?

भावार्थः

'जनार्दन' – एतस्य सम्बोधनस्य पृष्ठे अर्जुनस्य तात्पर्यम् अस्ति यद्, हे श्रीकृष्ण ! भवान् सर्वेषां याचनां पूर्णां करोति, अतः मम याचनां तु निश्चयेन पूर्णां करोतु इति ।

'ज्यायसी चेत्कर्मणस्ते...नियोजयसि केशव' – मनुष्यस्य अन्तःकरणे काचित् दुर्बलता भवति यद्, सः प्रश्नं कृत्वा वक्तुः स्वस्य सिद्धान्तानुरूपम् उत्तरम् एव इच्छति उत स्वस्य सिद्धान्तस्य समर्थनम् एव इति । एषा किमर्थं दुर्बलता इति चेद्, वक्तुः निर्देशस्य (अनुकूलस्य, प्रतिकूलस्य वा) पालने एव शूरवीरता अस्ति । अन्यत् सर्वं दुर्बलता उत कापुरुषता उच्यते । एतस्याः दुर्बलतायाः कारणेन एव मनुष्यः प्रतिकूलपरिस्थित्यां काठिन्यम् अनुभवति । यदा सः प्रतिकूलतां सोढुं न शक्नोति, तदा सः साधुतायाः अभिनयं करोति । अर्थाद्, साधुतायाः परिवेशे असाधुतायाः उपस्थितिः । यदि असाधुता साधुतायाः वेशं धृत्वा सम्मुखं समायाति, तर्हि तस्याः परिहारः कठिनः सिद्ध्यति । अत्र अर्जुनस्य सम्मुखम् अपि हिंसात्यागरूपिण्याः साधुतायाः परिवेशे कर्तव्यत्यागरूपिणी असाधुता उपस्थिता अस्ति । अतः सः कर्तव्यकर्मापेक्षया ज्ञानं श्रेष्ठतरं मनुते । अत एव सः अत्र प्रश्नोति यद्, यदि भवान् स्वयं कर्मणः अपेक्षया ज्ञानं श्रेष्ठतरं स्वीकरोति, तर्हि मां युद्धिरूपिणि घोरकर्मणि किमर्थं योजयति ? इति ।

अग्रे भगवान् बुद्धिर्योगे इत्यनेन पदेन समबुद्धेः (समतायाः) चर्चाम् अकरोत् [१], परन्तु अर्जुनः तं विषयं ज्ञानत्वेन अङ्ग्यकरोत् । अतः अत्र सः भगवन्तं कथयति यद्, हे जनार्दन ! अग्रे भवान् एव अवदत् यद्, अहं साङ्ख्यसम्बद्धां बुद्धिम् अवदम् अधुना त्वं योगसम्बद्धां बुद्धिं शृणु । तया बुद्ध्या युक्तः त्वं कर्मबन्धनं त्यक्ष्यसि इति । ततः भवान् उक्तवान् यद्, कर्मबन्धनाद् त्वं तदैव मुक्तः भविष्यसि, यदा त्वं ज्ञानं लप्स्यसि । ततः भवान् तस्मिन् विषये अयोजयत् यद्, बुद्धियोगात् अर्थाज्ज्ञानात् कर्म अत्यन्तं निकृष्टम् अस्ति इति [२] । यदि भवतः मते कर्मणा अपेक्षया ज्ञानं श्रेष्ठतरम् अस्ति, तर्हि मया शास्त्रविहितेषु यज्ञ-दान-तपो-युद्धादीनि कार्याणि अपि अकृत्वा बुद्धियोगः एव साधनीयः भवेत् । परन्तु भवान् तस्माद् विरुद्धं युद्धसदृशं क्रूरं कर्म कर्तुं मां किमर्थं प्रेरयति ? यस्मिन् अनेकेषां मनुष्याणां मृत्युः भविष्यति इति । पूर्वम् अर्जुनस्य मनसि युयुत्सा आसीदेव, अत एव सः अच्युतं सेनयोः मध्ये रक्षं स्थापयितुम् अवदत् । परन्तु सम्मुखे भीष्मादिनः दृष्ट्वा सः मोहग्रस्तः सन् शोकी अभवत् । तस्य शोकस्य आडम्बरस्वरूपे तस्य बुद्धिः ज्ञानमुखिनी अभवत् । येन युद्धरूपिणः कर्मणः त्यागः सरलः भवेत् । अत एव अर्जुनः कर्मणः निन्दां कुर्वन् भगवन्तं पृच्छति यद्, भवान् किमर्थं मां घोरे कर्मणि क्षिपति ? इति ।

अत्र 'बुद्धिः' इत्यस्य पदस्य अर्थः ज्ञानम् इति । यदि अत्र 'बुद्धिः' इत्यस्य पदस्य अर्थः समबुद्धिः इति स्वीकुर्मः, तर्हि व्यमिश्रवचनं सिद्ध्यति । यतो हि भगवान् पूर्वमेव अर्जुनाय समतायां स्थित्वा कर्म कर्तुम् आज्ञापयत् [३] । व्यामिश्रवचनं तदा सिद्ध्यति, यदा अर्जुनस्य मान्यतायां विचारद्वयं भवेत् । तस्यां स्थित्यामेव एतादृशः प्रश्नः सम्भवः । अग्रे भगवान् अर्जुनस्य प्रश्नसन्दर्भे द्वे निष्ठे अवदत् । ते ज्ञाननिष्ठा, कर्मनिष्ठा (योगनिष्ठा) च । अत एव अर्जुनस्य प्रश्ने उद्धृतस्य बुद्धिः इत्यस्य पदस्य अर्थः ज्ञानम् इत्येव युक्तिसङ्गतः । यः कोऽपि साधकः श्रद्धया प्रश्नोति चेद्व उचितम् उत्तरं प्राप्तुं शक्नोति । आक्षेपपूर्वकं शङ्कायां सत्याम् उचितस्य उत्तरस्य प्राप्तिः असम्भवा । अर्जुनस्य मनसि भगवति श्रद्धा अस्ति, अतः भगवतः कथनानुसारं स्वकल्याणाय युद्धसदृशे घोरकर्मणि आत्मानं प्रवृत्तं कर्तुं सज्जः अस्ति । एतादृशः भावः अस्मिन् श्लोके कृतेन प्रश्नेन प्रगटितः भवति ।

शाङ्करभाष्यम्

शास्त्रस्यप्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धि भगवता निर्दिष्टे सांख्ये बुद्धिर्योगे बुद्धिरिति च। तत्र 'प्रजाहाति यदा कामान्' इत्यारभ्याध्यायपरिसमाप्तेःंसांख्यबुद्धयाश्रितानां संन्यासं कर्तव्यमुक्त्वा तेषां तन्निष्ठतयैव च कृतार्थतोक्ता 'एषा ब्राह्मी स्थिति' रिति। अर्जुनाय च 'कर्मण्येवाधिकारस्ते','मा तेसङ्गऽस्त्वकर्मणि' इति कर्मैव कर्तव्यमुक्तवान् योगबुद्धिमाश्रित्य, न तत एव श्रेयःप्राप्तिमुक्तवान्, तदेतदालक्ष्य पर्याकुलीभूतबुद्धिरर्जुन उवाच। कथं भक्तायश्रेयोर्थिने यत् साक्षाच्छ्रेयःसाधनं साख्यबुद्धिनिष्ठां श्रावयित्वा मां कर्माणि दृष्टानेकानर्थयुक्ते पारंपर्येणाप्यनैकान्तिकश्रेयः प्राप्तिफलेनियुञ्ज्यादिति युक्तः पर्याकुलीभावोऽर्जुनस्य, तदनुरूपश्च प्रश्नो 'ज्यायसी चेत्' इत्यादिः। प्रश्नापाकरणवाक्यं च भगवतोक्तं यथोक्तविभागविषये शास्त्रे।

केचित्त्वर्जुनस्यप्रश्नार्थमन्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति,यथा चात्मना संबन्धग्रन्थे गीतार्थो निरूपितस्तत्प्रतिकूलं चेह पुनः प्रश्नप्रतिवचनयोरर्थं निरूपयन्ति | कथं, तत्र सम्बन्धग्रन्थे तावत्सर्वेश्हामाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निरूपितः अर्थः इत्युक्तं पुनर्विशेषितं च यावज्जीवं श्रुतिचोदितानि कर्माणि परित्यज्य केवलादेव जानमोक्शः प्राप्यत इत्येत्देकान्तेनैव प्रतिषिद्धमिति |

इह त्वाश्रमविकल्पं दर्श्यता यावज्जीवं श्रुतिचिदितानामेव कर्मनणां परित्याग उक्तः | तत्कथमीद्ऱुशं विरुद्ध्मर्थमर्जुनाय ब्रूयाद् भगवान्, श्रोता वा कथं विरुद्ढ्मर्थ्मवधारयेत् || तत्रैतत् स्यात् — गृहस्थानामेव श्रौतकर्मपरित्यागेन केवलादेव ज्ञानात् मोक्षः प्रतिषिध्यते, न तु आश्रमान्तराणामिति । एतदपि पूर्वोत्तरविरुद्धमेव । कथम् ? सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निश्चितः अर्थः इति प्रतिज्ञाय इह कथं तद्विरुद्धं केवलादेव ज्ञानात् मोक्षं ब्रूयात् आश्रमान्तराणाम् इति ॥

एतद् अपि पूर्वोत्तरविरुद्धम् एव । कथम्, सर्वाश्रमिणां ज्ञानककर्मणोः समुच्चयो गीताशास्त्रे निश्चितः अर्थ इति प्रतिज्ञाय इह कथं तद्विकुद्धं केवलाद् एव ज्ञानाद् मोक्षं ब्रूयाद् आश्रमान्तराणाम् । अथ मतं श्रौतकर्मापेक्षया एतद्वचनम् ‘केवलादेव ज्ञानात् श्रौतकर्मरहितात् गृहस्थानां मोक्षः प्रतिषिध्यते’ इति ; तत्र गृहस्थानां विद्यमानमपि स्मार्तं कर्म अविद्यमानवत् उपेक्ष्य ‘ज्ञानादेव केवलात्’ इत्युच्यते इति ।

एतदपि विरुद्धम् । कथम् ? गृहस्थस्यैव स्मार्तकर्मणा समुच्चितात् ज्ञानात् मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणामिति कथं विवेकिभिः शक्यमवधारयितुम् । किञ्च — यदि मोक्षसाधनत्वेन स्मार्तानि कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तैरेव समुच्चयो न श्रौतैः ॥

अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयः मोक्षाय, ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चितात् ज्ञानात् मोक्ष इति । तत्रैवं सति गृहस्थस्य आयासबाहुल्यात्, श्रौतं स्मार्तं च बहुदुःखरूपं कर्म शिरसि आरोपितं स्यात् ॥

अथ गृहस्थस्यैव आयासबाहुल्यकारणात् मोक्षः स्यात्, न आश्रमान्तराणां श्रौतनित्यकर्मरहितत्वात् इति । तदप्यसत्, सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रेषु च ज्ञानाङ्गत्वेन मुमुक्षोः सर्वकर्मसंन्यासविधानात्, आश्रमविकल्पसमुच्चयविधानाच्च श्रुतिस्मृत्योः ॥

सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः —

न, मुमुक्षोः सर्वकर्मसंन्यासविधानात् ।

‘पुत्रैषणाया वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३-५-१)

‘तस्मात् न्यासमेषां तपसामतिरिक्तमाहुः’ (तै. ना. ७९)

‘न्यास एवात्यरेचयत्’ (तै. ना. ७८) इति,

‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. १२) इति च ।

‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्याद्याः श्रुतयः ।

‘त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।

उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ।’ (मो. ध. ३२९-४०)

‘संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः’ ॥

इति बृहस्पतिः अपि कचं प्रति ।

‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।

तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ ॥ (महा. शान्ति. २४१-७) इति शुकानुशासनम् ।

इहापि च ‘सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५-१३) इत्यादि ॥

मोक्षस्य च अकार्यत्वात् मुमुक्षोः कर्मानर्थक्यम् । नित्यानि प्रत्यवायपरिहारार्थानि इति चेत्,

न; असंन्यासिविषयत्वात् प्रत्यवायप्राप्तेः । न हि अग्निकार्याद्यकरणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यः, यथा ब्रह्मचारिणामसंन्यासिनामपि कर्मिणाम् ।

न तावत् नित्यानां कर्मणामभावादेव भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या, ‘कथमसतः सज्जायेत’ (छा. उ. ६-२-२) इति असतः सज्जन्मासम्भवश्रुतेः ।

यदि विहिताकरणात् असम्भाव्यमपि प्रत्यवायं ब्रूयात् वेदः, तदा अनर्थकरः वेदः अप्रमाणमित्युक्तं स्यात् । विहितस्य करणाकरणयोः दुःखमात्रफलत्वात् । तथा च कारकं शास्त्रं न ज्ञापकम् इत्यनुपपन्नार्थं कल्पितं स्यात् । न चैतदिष्टम् । तस्मात् न संन्यासिनां कर्माणि । अतो ज्ञानकर्मणोः समुच्चयानुपपत्तिः ।

‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिः’ (भ. गी. ३-१) इति अर्जुनस्य प्रश्नानुपपत्तेश्च ॥

यदि हि भगवता द्वितीयेऽध्याये ज्ञानं कर्म च समुच्चित्य त्वया अनुष्ठेयम् इत्युक्तं स्यात्, ततः अर्जुनस्य प्रश्नः अनुपपन्नः ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’ (भ. गी. ३-१) इति ।

अर्जुनाय चेत् बुद्धिकर्मणी त्वया अनुष्ठेय इत्युक्ते, या कर्मणो ज्यायसी बुद्धिः सापि उक्तैव इति ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’ (भ. गी. ३-१) इति उपालम्भः प्रश्नो वा न कथंचन उपपद्यते । न च अर्जुनस्यैव ज्यायसी बुद्धिः न अनुष्ठेया इति भगवता उक्तं पूर्वम् इति कल्पयितुं युक्तम्, येन ‘ज्यायसी चेत्’ इति विवेकतः प्रश्नः स्यात् ॥

यदि पुनः एकस्य पुरुषस्य ज्ञानकर्मणोर्विरोधात् युगपदनुष्ठानं न सम्भवतीति भिन्नपुरुषानुष्ठेयत्वं भगवता पूर्वमुक्तं स्यात्, ततोऽयं प्रश्न उपपन्नः ‘ज्यायसी चेत्’ इत्यादिः । अविवेकतः प्रश्नकल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनं नोपपद्यते । न च अज्ञाननिमित्तं भगवत्प्रतिवचनं कल्पनीयम् । अस्माच्च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोः भगवतः प्रतिवचनदर्शनात् ज्ञानकर्मणोः समुच्चयानुपपत्तिः । तस्मात् केवलादेव ज्ञानात् मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ॥

ज्ञानकर्मणोः ‘एकं वद निश्चित्य’ (भ. गी. ३-२) इति च एकविषयैव प्रार्थना अनुपपन्ना, उभयोः समुच्चयसम्भवे । ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४-१५) इति च ज्ञाननिष्ठासम्भवम् अर्जुनस्य अवधारणेन दर्शयिष्यति ॥

ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिः हे जनार्दन ।

यदि बुद्धिकर्मणी समुच्चिते इष्टे तदा एकं श्रेयःसाधनमिति कर्मणो ज्यायसी बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धेरनुपपन्नम् अर्जुनेन कृतं स्यात् ।

न हि तदेव तस्मात् फलतोऽतिरिक्तं स्यात् ।

तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः, अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति, तत् किं नु कारणमिति भगवत उपालम्भमिव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च यदाह, तच्च नोपपद्यते ।

अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवता उक्तः अर्जुनेन च अवधारितश्चेत्, ‘तत्किं कर्मणि घोरे मां नियोजयसि’ (भ. गी. ३-१) इत्यादि कथं युक्तं वचनम् ॥

भाष्यार्थः

एतस्य गीताशास्त्रस्य पूर्वस्मिन्नध्याये अर्थात्, द्वितीयेऽध्याये भगवान् प्रवृत्तिविषयकीं योगबुद्धिं, निवृत्तिविषयकीं साङ्ख्यबुद्धिं च उपास्थापयत् । तत्र साङ्ख्यबुद्धेः आश्रयं स्वीकर्त्रे 'प्रजहाति यदा कामान्' इत्यस्मात् श्लोकात् आरभ्य अध्यायसमाप्तिपर्यन्तं सर्वकर्मणां त्यागः कर्तव्यम् इति उक्तम् अस्ति । 'एषा ब्राह्मी स्थितिः' इत्यस्मिन् श्लोके तस्याः ज्ञाननिष्ठायाः एव कृतार्थता प्रदर्शिता । परन्तु 'कर्मणि एव ते अधिकारः' [४], 'कर्मणि ते प्रीतिः न स्यात्' [५] इत्यादिभिः वचनैः भगवान् अर्जुनं कथयति यद्, योगबुद्धेः आश्रयं स्वीकृत्य त्वया कर्म करणीयम् इति । परन्तु तेन एव तव मुक्तिः भविष्यति इति भगवान् नावदत् । अतः मुक्तेः विषयम् अदृष्ट्वा अर्जुनः व्याकुलः सन् 'ज्यायसी चेत्' इत्यादि वदति ।

कल्याणेच्छुकाय भक्ताय मोक्षाय यत्साक्षात् साधनं साङ्ख्यनिष्ठा अस्ति, तां निष्ठाम् अर्जुनः अशृणोत् । तस्याः निष्ठायाः अनुसारं कर्म प्रत्यक्षीकृतम् अनेकेषाम् अनर्थानां कारणभूतम् अस्ति । तथा च क्रमेण अग्रे गत्वापि एतस्मिन् जन्मनि एकमात्रस्य मोक्षस्य प्राप्तरूपं फलं कर्मणा लभ्यते इत्यपि निश्चितं नास्ति इति । तर्हि भगवान् माम् एतादृशे कर्मणि किमर्थं योजयति ? एवम् अर्जुनस्य व्याकुलता उचिता । तस्यायां व्याकुलतायां सत्यां 'ज्यायसी चेत्' इत्यादिप्रश्नः । एतस्य प्रश्नस्य निवृत्त्यै पूर्वोक्ते विभागविषयकशास्त्रे भगवान् अनेकानि वचनानि अवदत् । तेषु वचनेनषु ज्ञाननिष्ठायाः, कर्मनिष्ठायाः च भिन्नं वर्णनम् अपि कृतम् अस्ति । परन्तु केचन टीकाकाराः अर्जुनस्य प्रश्नस्य प्रयोजनम् अन्यथा मत्वा तस्माद् विपरितं भगवतः उत्तरम् उपस्थापयन्ति । पूर्वभूमिकायां स्वयं गीताशास्त्रस्य यथा तात्पर्यं प्रदर्शितम् अस्ति, तस्मादपि उत्तरस्य विपरितार्थं प्रतिपादयन्ति ।

कथमिति चेद्, तत्र भूमिकायां तु केचन टीकाकाराः वदन्ति यद्, गीताशास्त्रे सर्वेभ्यः आश्रमेभ्यः ज्ञानकर्मयोः समुच्चयः निरूपितः इति । ते स्वस्य टीकायां विशेषरूपेण योजयन्ति यद्, 'यावज्जीवेद् अग्निहोत्रादिकर्माणि करणियानि' इत्यादीनां श्रुतविहितानां कर्मणां त्यागे कृते केवलं ज्ञानादेव मोक्षः प्राप्यते इत्यस्य सिद्धान्तस्य गीताशास्त्रे निश्चितरूपेण निषेधः अस्ति इति । परन्तु अत्र तृतीयेऽध्याये तैः आश्रमाणां विकल्पः प्रदर्श्य 'यावज्जीवेद्' इत्यादीनां श्रुतिवाक्येषु विहितानां कर्मणामेव त्यागः उक्तः अस्ति । अनेन शङ्का भवति यद्, भगवान् एतादृशानि विरुद्धानि वचनानि अर्जुनं कथं वदेत् ? तथा च एतादृशानि विरुद्धानि वचनानि श्रुत्वा अर्जुनः कीदृशम् अर्थं स्वीकुर्यात् ? इति ।

पू. – यदि तत्र भूमिकायाम् एतादृशः अभिप्रायः भवेद् यद्, गृहस्थाश्रमिणे एव श्रौतकर्मणां त्यागपूर्वकं केवलं ज्ञानेन मोक्षः निषिद्धः अस्ति, न तु अन्येषाम् आश्रमिणां कृते इति, तर्हि ?

उ. - एतदपि पूर्वापरविरुद्धम् एव । यतो हि सर्वेषाम् आश्रमिणां कृते ज्ञानकर्मणोः समुच्चयः गीताशास्त्रस्य निश्चिताभिप्रयः अस्ति इति भूमिकायां प्रतिज्ञां कृत्वा विपरीततया अत्र अन्येभ्यः आश्रमेभ्यः अपि भगवान् केवलं ज्ञानेन मोक्षः कथम् उपस्थापयितुं शक्नुयात् ? इति ।

पू. – कदाचित् एवं स्वीकर्मः यद्, एवं श्रौतकर्मणाम् अपेक्षया अस्ति इति । अर्थात् श्रौतकर्मरहितात् केवलं ज्ञानादेव गृहस्थेभ्यः मोक्षस्य निषेधः कृतः अस्ति इति । तत्र यः केवलं ज्ञानेन गृहस्थानां मोक्षनिषेधः उक्तः, सः विद्यमानस्य स्मार्तकर्मणः अपि अविद्यमानवद् उपेक्षां कृत्वा उक्तः इति ।

उ. – एतदपि विपरीतम् अस्ति । यतो हि गृहस्थेभ्यः एव केवलं स्मार्तकर्मणा प्राप्तेन ज्ञानेन मोक्षस्य प्रतिषेधः अस्ति, अन्येभ्यः आश्रमेभ्यः नास्ति इति विचारवान् मनुष्यः कथं स्वीकर्तुं शक्नोति ? अपरः विषयः अस्ति यद्, यदि ऊर्ध्वरेतोभ्यः मोक्षप्राप्त्यै ज्ञानेन सह केवलं स्मार्तकर्मणां सम्मुच्यः अपेक्षितः, तर्हि न्यायपूर्वकं गृहस्थाश्रमिभ्यः केवलं स्मार्तकर्मणा सह एव ज्ञानसमुच्चयः आवश्यकः, न तु श्रौतकर्मभिस्सह ।

पू. – यदि एवं मन्यामः यद्, गृहस्थेभ्यः एव मोक्षाय श्रौतस्मार्तकर्मभ्यां सह ज्ञानस्य समुच्चयः आवश्यकः अस्ति । ऊर्ध्वरेतोभ्यस्तु केवलं स्मार्तकर्मयुक्तेन ज्ञानेन मोक्षः भवति इति चेत् ?

उ. – एवं कृते सति तु गृहस्थानाम् उपरि उभयोः श्रौतस्मार्तकर्मणोः परिश्रमयुक्तः, अतिदुःरूपी भारः आरोपितः स्यात् ।

पू. – अधिके परिश्रमे कृते सत्येव गृहस्थानां मुक्तिः भवति, अन्येषाम् आश्रमाणां श्रौतनित्यकर्मणाम् अभावत्वात् ते मोक्षं न प्राप्नुवन्ति इति यदि वदामः, तर्हि ?

उ. – एतन्नोचितम् । किञ्च सर्वासु उपनिषत्सु, सर्वेषु इतिहासपुराणयोगशास्त्रेषु मुमुक्षाय ज्ञानस्य अङ्गं मत्वा सर्वेषां कर्मणां सन्न्यासस्य विधानम् अस्ति । तथा च श्रुतिस्मृतिषु अपि आश्रमविकल्पस्य समुच्चयस्य विधानम् अस्ति । (ब्रह्मचर्यात् गृहस्थः, गृहस्थात् वानप्रस्थः, वानप्रस्थात् संन्यासः ग्रहणीयः एतादृशानां समुच्चयानां विनाधनम् अस्ति । ततोधिकं ब्रह्मचर्यात्, गृहस्थाश्रमात्, वानप्रस्थात् वा संन्यासः ग्रहणीयः इति आश्रमाणां वैकल्पिकं विधानम् अपि अस्ति ।)

पू. – तर्हि सर्वेभ्यः आश्रमेभ्यः ज्ञानकर्मणोः सम्मुच्यः सिद्ध्यति ।

उ. – न । यतः मुमुक्षवे सर्वकर्मणां त्यागस्य विधानम् अस्ति । सर्वधाभ्यः भोगेभ्यः विरक्तः सन् भिक्षावृत्तेः अवलम्बनं कुर्वन्ति [६] । अतः सर्वेभ्यः तपोभ्यः सन्न्यासः एव उत्तमः उक्तः [७] । सन्न्यासः एव श्रेष्ठः [८] । न कर्मणा, न प्रजया, न धनेन च अपि तु केवलं त्यागेन एव महापुरुषः अमृतत्त्वं प्राप्नोति [९] [१०] इत्यादीनि श्रुतिवचनानि सन्ति । धर्म, अधर्म च त्यज, सत्यम्, असत्यं च त्यज, सत्यासत्ये उभे त्यक्त्वा यः अहङ्कारः अस्ति, तमपि त्यज । संसारं साररहितं दृष्ट्वा परवैराग्यस्य आश्रिताः पुरुषाः सारवस्तोः दर्शनेच्छायां विवाहम् अकृत्वा (ब्रह्मचर्याश्रमात्) एव संन्यासं गृह्णन्ति [११] इति ब्रह्मा कचं कथयति । जीवः कर्मभ्यः बद्धः भवति । ज्ञानेन च मुक्तः । अतः आत्मतत्त्वज्ञातारः यतयः कर्म न कुर्वन्ति इति वेदव्यासः शुकदेवम् अथयत् [१२]

'सर्वेषां कर्मणां मनसा त्यागं कृत्वा' [१३] इत्यादीनि अत्र गीताशास्त्रेऽपि वचनानि सन्ति । मोक्षः अकार्यः अस्ति । अर्थात् मोक्षं प्राप्तुं काचित् क्रिया करणीया, तस्याः क्रियायाः फलत्वेन मोक्षः प्राप्यते इति नास्ति । अतः मुमुक्षुभ्यः कर्म व्यर्थम् अस्ति ।

प्र. – प्रत्यवायं (विहितकर्मणा अनुष्ठानम् अकृत्वा पापं भवति । तस्य नाम एव प्रत्यवायः इति ।) दूरीकर्तुं नित्यकर्मणाम् अनुष्ठानम् आवश्यकम् अस्ति इति वदामश्चेत् ?

उ. – एवं नोचितम् । यतो हि प्रत्यवायस्य प्राप्तिः सन्न्यासिभ्यः न, अपि तु असन्न्यासिभ्यः वर्तते । ये सन्न्यस्थाः न सन्ति, तादृशेभ्यः गृहस्थब्रह्मचारिभ्यः यथा विहितकर्मणाम् अभावे प्रत्यवायः उक्तः, तथा अग्रिहोत्रादिकर्मणाम् अभावे सन्न्यासिभ्यः अपि प्रत्यवायस्य कल्पना असम्भवा । तथा च नित्यकर्मणाम् अभावे भावरूपप्रत्यवायस्य कल्पना अपि असम्भवा । यतो हि 'असतः सतः उत्पत्तिः कथं शक्यते ?' [१४] इत्यादीनि अभावाद् भावस्य उत्पत्तेः असम्भवत्वस्य श्रुतिषु वचानानि सन्ति ।

कर्मणाम् अभावाद् भावरूपिणि प्रत्यवाये असम्भवे सत्यपि विहितकर्मणाम् अनाचरणं प्रत्यवायस्य विधानं वेदाः कुर्वन्ति इति यदि वदामः, तर्हि वेदाः अनर्थकारकाणि, अप्रामाणिकानि वचनानि वदन्ति इति सिद्ध्यति । यतो हि एवं मन्यते चेद्, वेदविहितानां कर्मणां करणाकरणयोः केवलं दुःखमेव फलं भविष्यति । ततोधिकं शास्त्रज्ञापकं न अपि तु कारकम् अस्ति अर्थात् अपूर्वशक्त्युत्पादकम् अस्ति । एवं मान्यता तु युक्तिशून्या, तथापि तस्याः स्वीकारः कृतः इति सिद्ध्यति । सः स्वीकारः न कस्यापि कृते इष्टः । वास्तव्येन शास्त्रं केवलं पदार्थानां शक्तिं प्रदर्शयति । तेषु पदार्थेषु नवीनायाः शक्तेः उत्पादनक्षमता तस्मिन् नास्ति । सुतरां सिद्ध्यति यद्, सन्न्यासिभ्यः कर्म नास्ति । अत एव ज्ञानकर्मणोः समुच्चयः अपि युक्तियुक्तः नास्ति इति । तथा च 'ज्यायसी चेत्' इत्यादिना अर्जुनस्य प्रश्नस्य असङ्गतेः कारणम् अपि ज्ञानकर्मणोः कर्मसमुच्चयस्य नास्ति । यतो हि द्वितीयेऽध्याये भगवान् अर्जुनम् अवदिष्यत् यद्, ज्ञानकर्मणोः त्वया सहसा अनुष्ठानं करणीयम् इति चेद्, हे जनार्दन ! यदि कर्मणाम् अपेक्षया भवान् ज्ञानं श्रेष्ठतरं मनुते इत्यादि अर्जुनः न पृच्छेत् । यदि भगवान् अर्जुनम् अवदिष्यत् यद्, त्वं ज्ञानकर्मणोः सहसा अनुष्ठानं कुर्याः । ज्ञानकर्मणोः समुच्चयः एव कर्मणः श्रेष्ठतरः अस्ति । एवं ज्ञानस्य सम्पादनाय अपि उक्तमेव, तर्हि हे केशव ! मां घोरे कर्मणि किमर्थं योजयति इत्येषः अर्जुनस्य प्रश्नः अपि न भवेत् ।

अर्जुनस्य मनसि 'ज्यायसी चेत्' इत्यादिः प्रश्नः उद्भवेद् इति कामनया 'एतस्य श्रेष्ठस्य ज्ञानस्य अनुष्ठानम् अर्जनेन न करणीयम् इति भगवान् पूर्वस्माद् एव अवदत् । एतादृशी कल्पाना अपि कर्तुं न शक्यते । परन्तु यदि ज्ञानकर्मणोः परस्परं विरोधत्वात् कश्चन पुरुषः सहसा उभयोः अनुष्ठानं कर्तुं न शक्नुयात् इति ज्ञात्वा एव भगवान् उभयोः (ज्ञानकर्मणोः) भिन्नेन भिन्नेन पुरुषेण अनुष्ठानं योग्यम् इति पूर्वमेव अवदत्, तर्हि 'ज्यायसी चेत्' इत्यादिः प्रश्नः न सम्भवति । यदि कल्पयामः यद्, अर्जुनेन एषः प्रश्नः अविवेकत्वाद् कृतः, तर्हि अपि भगवान् एतस्य अविवेकाद् उत्पन्नस्य प्रश्नस्य 'ज्ञानकर्मणोः भन्नैः पुरुषैः अनुष्ठानं योग्यम्' इति उत्तरं दद्याद् इति युक्तिसङ्गतं न । एवं भगवतः उत्तरस्य अज्ञानमूलकत्वं सर्वथा अनुचितमेव । अत एव 'ज्ञानकर्मणोः अनुष्ठानाधिकारिणौ भिन्नौ स्तः' इत्यनेन भगवतः उत्तरेण सिद्ध्यति यद्, ज्ञानकर्मणोः समुच्चयः असम्भवः इति । तस्मात् कारणादेव गीताशास्त्रे, सर्वासु उपनिषत्सु च एषः निश्चितः अभिप्रायः अस्ति यद्, केवलं ज्ञानेन एव मोक्षः लभते इति ।

यदि उभयोः समुच्चयः सम्भवः अभविष्यत्, तर्हि तयोः एकस्य एव निश्चयं कृत्वा वदतु इति अर्जुनस्य प्रार्थना न भवेत् । ततोधिकं भगवान् अपि अग्रे 'कुरु कर्मैव तस्मात्त्वम्' इत्यनेन अर्जुनाय ज्ञाननिष्ठा असम्भवा इति प्रदर्शयिष्यति ।

अर्जुनः अवदत् –

हे जनार्दन ! यदि कर्मणाम् अपेक्षया ज्ञानमेव भवान् श्रेष्ठतरं मनुते, तर्हि हे केशव ! किमर्थं भवान् माम् एतादृशे हिंसारूपिणि क्रूरे कर्मणि योजयति ? इति । यदि ज्ञानकर्मणोः समुच्चयः भगवते उचितः अभविष्यत्, तर्हि 'कल्याणस्य तदेकं साधनं कथयतु', 'कर्मणः ज्ञानं श्रेष्ठम् अस्ति' इत्यादिभिः वाक्यैः अर्जुनस्य ज्ञानात् कर्मणः पृथग्त्वम् अनुचितम् अभविष्यत् । यतो हि समुच्चयपक्षे कर्मणः अपेक्षया ज्ञानस्य फलकारणात् श्रेष्ठत्वम् असम्भवम् । तथा च भगवान् कर्मणः अपेक्षया ज्ञानं श्रेष्ठतरं मत्वापि माम् एतस्मिन् घोरकर्मणि योजयति इति विचिन्त्य भगवन्तम् उपालम्भेन सह अर्जुनस्य 'तर्हि हे केशव ! माम् एतस्मिन् घोरकर्मणि किमर्थं योजयति' इति प्रश्नः अनुचितः अभविष्यत् ।

स्मार्तकर्मभिः सह यदि भगवान् ज्ञानस्य समुच्चयं कर्तुम् अकथयिष्यत्, तर्हि अर्जुनः अपि एवम् अवागमिष्यत् । एवं 'हे केशव ! माम् एतस्मिन् घोरे कर्मणि किमर्थं योजयति ?' इत्येषः प्रश्नः कथं युक्तियुक्तः सम्भवेत् ?

रामानुजभाष्यम्

अर्जुन उवाच यदि कर्मणः बुद्धिः एव ज्यायसी इति ते मता किमर्थं तर्हिघोरे कर्मणि मां नियोजयसि एतदुक्तं भवतिज्ञाननिष्ठा एव आत्मावलोकनसाधनम् कर्मनिष्ठा तु तस्याः निष्पादिका आत्मावलोकनसाधनभूता च ज्ञाननिष्ठा सकलेन्द्रियमनसां शब्दादिविषयव्यापारोपरतिनिष्पाद्या इत्यभिहिता। इन्द्रियव्यापारोपरतिनिष्पाद्यम् आत्मावलोकनं चेद् सिषाधयिषितम् सकलकर्मनिवृत्तिपूर्वकज्ञाननिष्ठायाम् एव अहं नियोजयितव्यः किमर्थं घोरे कर्मणि सर्वेन्द्रियव्यापाररूपे आत्मावलोकनविरोधिनि कर्मणि मां नियोजयसि इति।

भाष्यार्थः

मुमुक्षुभिः ज्ञातव्यः वेदान्तवर्णितः, अविद्यादिभ्यः दोषेभ्यः सर्वथा रहितः, असीम्नाम् असङ्ख्यानां कल्याणमयगुणानां समूहः, सः परब्रह्मपुरुषोत्तमः प्राप्तव्यः अस्ति । तस्य पुरुषोत्तमस्य प्राप्त्यै उपायरूपेण वेदना, उपासना, ध्यानम् इत्यादिभिः नामभिः कथितस्य ऐकान्तिकस्य [१५], आत्यन्तिकस्य [१६] च भक्तियोगस्य वर्णनं कर्तुम् एतावता तस्य भक्तियोगस्य अङ्गभूतमुमुक्षोः जीवात्मनः यथार्थस्वरूपस्यज्ञानम् उपस्थापितम् । तज्ज्ञानं 'य आत्मापहतपाप्मा' [१७] इत्यादिभिः प्रजापतेः वाक्येषु प्रतिपादितम् अस्ति, तथा च आत्मनः नित्यतायाः ज्ञानपूर्वकं क्रियामाणानाम् आसक्तिरहितानां कर्मणां फलरूपात् ज्ञानयोगात् प्राप्यते इति उक्तम् ।

प्रजापतिः यदा दहरविद्यां प्रतिपादयन् आसीत्, तदा तस्य वचनेषु वर्णितायाः पराविद्यायाः अङ्गरूपत्वेन जीवात्मनः स्वरूपज्ञानस्य उपसंहारः दहरविद्यायाः फलेन सह कृतः अस्ति । यः तम् आत्मानम् आचार्यभिः ज्ञात्वा गच्छति [१८] इति तत्र उक्तम् अस्ति । एवं प्रतिपादनं कुर्वन् अनेन सह आत्मा जाग्रत-स्वप्न-सुषुप्तिभ्यः अतीतः, प्रत्यगात्मस्वरूपः, शरीररहितः इति वर्णितः । ततोत्तरम् उक्तमस्ति यद्, एवं सम्प्रसादः एतस्माद् शरीरात् निर्गत्य परमज्योतेः समीपतां प्राप्तुं स्वस्य रूपेण एव सिद्धः भवति इति [१९]

'अध्यात्मयोगस्य प्राप्त्या धीरः पुरुषः देवं ज्ञात्वा हर्षशोकौ त्यजति' [२०] एवम् अन्यासु उपनिषत्सु अपि प्रतिपादितम् अस्ति । यतो हि तत्र 'देवं मत्वा' इत्यादिभिः प्रदर्शितायाः पराविद्यायाः अङ्गरूपेण जीवात्मनः स्वरूपज्ञानस्य वर्णनम् 'अध्यात्मयोगाधिगमेन' इत्यादिभिः वाक्यैः अस्ति । एवमेव 'ज्ञातृपुरुषः अर्थात् आत्मा न कदापि जायते, न म्रियते' [२१] इत्यादिभिः वाक्यैः जीवात्मनः स्वरूपस्य निरूपणं कृतम् अस्ति । ततः विभिन्नेषु स्थानेषु आत्मनः स्वरूपवर्णनं प्राप्यते । सः अणोरणीयः अस्ति [२२] । महान्तं व्यापकं परमात्मानं ज्ञात्वा धीरः पुरुषः शोकं न करोति [२३] । सः आत्मा न तु प्रवचनेन, बुद्ध्या, बहुना शास्त्रश्रवणेन च प्राप्य, किन्तु सः स्वयं यस्यापि वरणं करोति अर्थात् यस्मिन् कृपां करोति, तस्मै एव लभते । तस्य कृपापात्रस्य सम्मुखमेव सः परमात्मा स्वस्य स्वरूपं प्रकटयति [२४] । एवं तस्य परब्रह्मणः उपासनायाः भक्तिरूपातायाः च प्रतिपादनम् अस्ति । ततः आत्मज्ञानस्य उपसंहारः पराविद्यायाः फलेन सह कृतः अस्ति । तस्मिन् उपसंहारे उल्लिखितम् अस्ति यद्, यस्य मनुष्यस्य सारथिः विज्ञानम् अस्ति अर्थात् सद्बुद्धिः अस्ति, मनश्च प्रग्रहवद् अस्ति, सः एनं मार्गम् उल्लङ्घ्य परमपदं प्राप्नोति [२५]

अधुना इतः आरभ्य अर्थात् तृतीयाध्यायात् षष्ठमाध्यायपर्यन्तं चतुर्षु अध्यायेषु एतस्य मुमुक्षोः जीवात्मनः स्वरूपज्ञानस्य विषयवर्णनमेव साधनसहितं विस्तारेण कथयति –

यदि भवतः मते कर्मणा अपेक्षया बुद्धिरेव श्रेष्ठतरा, तर्हि भवान् माम् एतस्मिन् घोरे कर्मणि किमर्थं नियोजयति ? अत्र अभिप्रायः अस्ति यद्, आत्मसाक्षात्कारस्य एकमात्रं साधनं ज्ञाननिष्ठा अस्ति । कर्मनिष्ठा तु तस्याः उत्पद्यते । तथा च आत्मसाक्षात्कारस्य साधनभूता तु सा ज्ञाननिष्ठा समस्तेन्द्रियाणां, मनसः च शब्दादिविषयसेवनरूपं व्यापारं त्यक्त्वा एव सिद्ध्यति इति भवान् अवदत् । यदि इन्द्रियव्यापरस्य उपरतिना सिद्ध्यमानम् आत्मज्ञानं प्राप्तव्यम् एव भवतः कृते अभीष्टम् अस्ति, तर्हि समस्तकर्मणां निवृत्तिपूर्वं ज्ञाननिष्ठायाम् एव मे नियोजनम् उचितम् अस्ति । तथापि भवान् माम् एतस्य आत्मज्ञानस्य विरोधिनि इन्द्रिव्यापाररूपिणि घोरकर्मणि किमर्थं नियोजयति ?


फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. गीता, अ. २, श्लो. ३९
  2. गीता, अ. २, श्लो. ४९
  3. गीता, अ. २, श्लो. ४८
  4. कर्मण्येवाधिकारस्ते
  5. मा ते सङ्गोऽस्त्वकर्मणि
  6. व्युत्थायाथ भिक्षाचर्यं चरन्ति, बृहदारण्यकोपनिद्, ३/५/१
  7. तस्मात्सन्न्यासमेषां तपसामतिरिक्तमाहुः, नारदोपनिषद्, २/७९
  8. न्यास एवात्यरेचयत्, नारदोपनिषद्, २/७८
  9. न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः, नारदोपनिषद्, २/१२
  10. 'ब्रह्मचर्यादेव प्रव्रजेत्', जाबालोपनिषत्, ४
  11. त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
    उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ।।
    संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया ।
    प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः ।। संन्यासोपनिषद् २/१२
  12. कर्मणा बध्यते जन्तुर्विद्या च विमुच्यते ।
    तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ।। महाभारतम्, शान्तिपर्व, २४१/७
  13. सर्वकर्माणि मनसा सन्न्यस्य
  14. कथमसतः सज्जायेत, छान्दोग्योपनिषद्, ६/२/२
  15. अन्यदेवस्य, अन्यफलस्य च आश्रयरहिता भक्तिः 'ऐकान्तिकभक्तिः' उच्यते ।
  16. अनन्तदुःखराशेः अभावं, प्रमेयसुखप्राप्तेः एकमात्रनिर्दोषम्, अव्यर्थसाधनं च 'आत्यन्तिकभक्तिः' उच्यते ।
  17. छान्दोग्योपनिषद्, ८/७/१
  18. यस्तमात्मानमनुविद्यविजानाति, छान्दोग्योपनिषद्, ८/१२/६
  19. एवमेवैषसम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतरूपसम्प्रद्य स्वेन रूपेणाभिनिष्पद्यते । छान्दोग्योपनिषद्, ८/१२/३
  20. अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति । कठोपनिषद्, १/२/१२
  21. न जायते म्रियते वा विपश्चित्, कठोपनिषद्, १/२/१८
  22. अणोरणीयान्, १/२/२०
  23. महान्तं विभुमात्मानं मत्वा धीरो न शोचति, कठोपनिषद्, १/२/२२
  24. नायत्मा प्रवचनेन लभ्यो न मेघया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तेस्यैष आत्मा विवृणुते तनूं स्वाम् । कठोपनिषद्, १/२/२३
  25. विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।
    सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ।। कठोपनिषद्, १/३/९