क्षेत्रक्षेत्रज्ञयोरेवम्...
१२:५८, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
- भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य चतुस्त्रिंशत्तमः(३४) श्लोकः ।
पदच्छेदः
क्षेत्रक्षेत्रज्ञयोः एवम् अन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षं च ये विदुः यान्ति ते परम् ॥ ३४ ॥
अन्वयः
एवं ज्ञानचक्षुषा क्षेत्रक्षेत्रज्ञयोः अन्तरं भूतप्रकृतिमोक्षं च ये विदुः ते परं यान्ति ।
शब्दार्थः
- ज्ञानचक्षुषा = ज्ञाननेत्रेण
- क्षेत्रक्षेत्रज्ञयोः = शरीरात्मनोः
- अन्तरम् = वैलक्षण्यम्
- भूतप्रकृतिमोक्षम् = अविद्यानाशम्
- विदुः = विदन्ति
- परम् = परं ब्रह्म ।
अर्थः
एवम् आत्मशरीरयोः भेदं ज्ञाननेत्रेण ये विदन्ति, या इयं भूतानां प्रकृतिः ततः मोक्षं च ये विदन्ति ते परं ब्रह्म उपयान्ति ।