उपद्रष्टानुमन्ता च...

भारतपीडिया तः
१२:५६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ २२ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः

उपद्रष्टा अनुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मा इति च अपि उक्तः देहे अस्मिन् पुरुषः परः ॥ २२ ॥

अन्वयः

उपद्रष्टा अनुमन्ता भर्ता भोक्ता महेश्वरः च परमात्मा इति च अपि उक्तः अस्मिन् देहे परः पुरुषः ।

शब्दार्थः

उपद्रष्टा = समीपे स्थित्वा समीक्षिता
अनुमन्ता च = अनुमोदकः
भर्ता = धारकः
भोक्ता = अनुभविता
महेश्वरः = महाप्रभुः
अस्मिन् = एतस्मिन्
परमात्मा इति च अपि = परब्रह्म इति अपि
परः = उत्तमः
पुरुषः = अक्षरः ।

अर्थः

शरीरे स्थितः यः समीपे स्थित्वा सर्वं पश्यन्निव अस्ति, यः सन्निधिमात्रेण अनुग्राहक इव वर्तते, यः शरीरादिकं धारयन् इव भासते, यः सुखदुःखादीन् अनुभवति, यः स्वतन्त्रत्वात् महान् ईश्वरः सः परमात्मा इति शब्देन श्रुतौ प्रतिपादितः । सः प्रकृतिभिन्नोऽपि प्रकृतिपरिणामे शरीरे वसन् पुरुषः इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=उपद्रष्टानुमन्ता_च...&oldid=9724" इत्यस्माद् प्रतिप्राप्तम्