इति गुह्यतमं शास्त्रम्...
१२:५५, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
श्लोकः
- इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
- एतद् बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य विंशतितमः(२०) श्लोकः ।
पदच्छेदः
इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत ॥ २० ॥
अन्वयः
अनघ ! मया इदं गुह्यतमं शास्त्रम् इति उक्तम् । भारत ! एतत् बुद्ध्वा बुद्धिमान् कृतकृत्यः च स्यात् ।
शब्दार्थः
- अनघ = अपाप !
- गुह्यतमम् = अतिरहस्यम्
- शास्त्रम् = अबाधितार्थप्रतिपादकं वाक्यम्
- बुद्ध्वा = ज्ञात्वा
- बुद्धिमान् = विवेकवान्
- कृतकृत्यः = कृतार्थः ।
अर्थः
हे अपाप (अर्जुन) ! एतत् अतिरहस्यं शास्त्रम् इति मया प्रतिपादितम् । भारत ! इदं शास्त्रं ज्ञात्वा भवान् विवेकवान् कृतार्थः च भवेत् ।