आश्विनमासः
१६:५६, २४ एप्रिल् २०२२ पर्यन्तं ImportMaster (सम्भाषणम् | योगदानानि) (robot: Import pages using विशेषः:आयापयतु) द्वारा जातानां परिवर्तनानाम् आवलिः
भारतीयकालगणनानुगुणं वर्षस्य १२मासेषु अयं सप्तमः मासः । भाद्रपदमासस्य अनन्तरं कार्तिकमासात् पूर्वम् अयं मासः तिष्ठति । भारतीयानाम् अयं मास विशेषः यतः अमिन् मासे अनेकानि पर्वाणि सम्भवन्ति । विजयदशमीसहितं दशदिनात्मकं पर्व नवरात्रम् अस्मिन् एव मासे आयाति । आश्वयुजशुक्लप्रतिपत् तः नवमीपर्यन्तम् (९ दिनानि) नवरात्रोत्सवः । अनन्तरदिनं विजयदशमी इति आचर्यते । आश्वयुजकृष्णचतुर्दशी नरकचतुर्दशी इति दीपावलीपर्वणः एकं दिनं भवति ।